(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।
॥ श्रीः ॥
1.37. अध्यायः 037
Mahabharata - Adi Parva - Chapter Topics
मातृशापपरिहारार्थं सर्पाणां मन्त्रालोचनम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
सौतिरुवाच। 1-37-0x(173)(1710)
मातुः सकाशात्तं शापं श्रुत्वा वै पन्नगोत्तमः।
वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम्॥ 1-37-1(1711)
ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः।
ऐरावतप्रभृतिभिः सर्वैर्धर्मपरायणैः॥ 1-37-2(1712)
वासुकिरुवाच। 1-37-3x(174)
अयं शापो यथोद्दिष्टो विदितं वस्तथाऽनघाः।
तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे॥ 1-37-3(1713)
सर्वेषामेव शापानां प्रतिघातो हि विद्यते।
न तु मात्राऽभिशप्तानां मोक्षः क्वचन विद्यते॥ 1-37-4(1714)
अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः।
शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः॥ 1-37-5(1715)
नूनं सर्वविनाशोऽयमस्माकं समुपागतः।
`शापः सृष्टो महाघोरो मात्रा खल्वविनीतया।
न ह्येतां सोऽव्ययो देवः शपत्नीं प्रत्यषेधयत्॥ 1-37-6(1716)
तस्मात्संमन्त्रयामोऽद्य भुजङ्गानामनामयम्।
यथा भवेद्धि सर्वेषां मा नः कालोऽत्यगादयम्॥ 1-37-7(1717)
सर्व एव हि नस्तावद्बुद्धिमन्तो विचक्षणाः।
अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे॥ 1-37-8(1718)
यथा नष्टं पुरा देवा गूढमग्निं गुहागतम्।
यथा स यज्ञो न भवेद्यथा वाऽपि पराभवः।
जनमेजयस्य सर्पाणां विनाशकरणाय वै॥ 1-37-9(1719)
सौतिरुवाच। 1-37-10x(175)
तथेत्युक्त्वा ततः सर्वे काद्रवेयाः समागताः।
समयं चकिरे तत्र मन्त्रबुद्धिविशारदाः॥ 1-37-10(1720)
एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः।
जनमेजयं तु भिक्षामो यज्ञस्ते न भवेदिति॥ 1-37-11(1721)
अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः।
मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः॥ 1-37-12(1722)
स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम्।
तत्र बुद्धिं प्रदास्यामो यथा यज्ञो निवर्त्स्यति॥ 1-37-13(1723)
स नो बहुमतान्राजा बुद्ध्या बुद्धिमतां वरः।
यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम्॥ 1-37-14(1724)
दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान्।
हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः॥ 1-37-15(1725)
अथवा य उपाध्यायः क्रतोस्तस्य भविष्यति।
सर्पसत्रविधानज्ञो राजकार्यहिते रतः॥ 1-37-16(1726)
तं गत्वा दशतां कश्चिद्भुजङ्गः स मरिष्यति।
तस्मिन्मृते यज्ञकारे क्रतुः स न भविष्यति॥ 1-37-17(1727)
ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य चर्त्विजः।
तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति॥ 1-37-18(1728)
अपरे त्वब्रुवन्नागा धर्मात्मानो दयालवः।
अबुद्धिरेषा भवतां ब्रह्महत्या न शोभनम्॥ 1-37-19(1729)
सम्यक्सद्धर्ममूला वै व्यसने शान्तिरुत्तमा।
अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत्॥ 1-37-20(1730)
अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम्।
वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः॥ 1-37-21(1731)
स्रुग्भाण्डं निशि गत्वा च अपरे भुजगोत्तमाः।
प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति॥ 1-37-22(1732)
यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः।
जनान्दशन्तु वै सर्वे नैवं त्रासो भविष्यति॥ 1-37-23(1733)
अथवा संस्कृतं भोज्यं दूषयन्तु भुजङ्गमाः।
स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना॥ 1-37-24(1734)
अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे।
यज्ञविघ्नं करिष्यामो दक्षिणा दीयतामिति॥ 1-37-25(1735)
वश्यतां च गतोऽसौ नः करिष्यति यथेप्सितम्।
अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम्॥ 1-37-26(1736)
गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः।
अपरे त्वब्रुवंस्तत्र नागाः पण्डितमानिनः॥ 1-37-27(1737)
दशामस्तं प्रगृह्याशु कृतपेवं भविष्यति।
छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति॥ 1-37-28(1738)
एषा नो नैष्ठिकी बुद्धिः सर्वेषामीक्षणश्रवः।
अथ यन्मन्यसे राजन्द्रुतं तत्संविधीयताम्॥ 1-37-29(1739)
इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगोत्तमम्।
वासुकिश्चापि संचिन्त्य तानुवाच भुजङ्गमान्॥ 1-37-30(1740)
नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजङ्गमाः।
सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते॥ 1-37-31(1741)
किं तत्र संविधातव्यं भवतां स्याद्धितं तु यत्।
श्रेयः प्रसादनं मन्ये कश्यपश्य महात्मनः॥ 1-37-32(1742)
ज्ञातिवर्गस्य सौहार्दादात्मनश्च भुजङ्गमाः।
न च जानाति मे बुद्धिः किंचित्कर्तुं वचो हिवः॥ 1-37-33(1743)
मया हीदं विधातव्यं भवतां यद्धितं भवेत्।
अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ॥ ॥ 1-37-34(1744)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सप्तत्रिंशोऽध्यायः॥ 37 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-37-5 सत्यस्य सत्यलोकाधिपतेर्ब्रह्मणः॥ 1-37-10 मन्त्रबुद्धिविशारदाः नीतिनिश्चयनिपुणाः॥ 1-37-13 निवर्त्स्यति निवृत्तो भविष्यति॥ 1-37-18 कृतं प्रतिकृतम्॥ 1-37-20 व्यसने आपदि शान्तिः आपन्नाशः। सद्धर्ममूला सतां धर्मो देवब्राह्मणप्रार्थना तन्मूला॥ 1-37-29 नैष्ठिकी आत्यन्तिकी। ईक्षणमेव श्रवः श्रोत्रं यस्य स तथाभूत हे वासुके॥ 1-37-31 ज्ञातिरक्षानाशनिमित्तौ गुणदोषौ मदाश्रयौ ज्येष्ठत्वान्ममेत्यर्थः॥ सप्तत्रिंशोऽध्यायः॥ 37 ॥
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.